पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये

जनकजाऽऽस्यसमोऽपि न मन्मुदे विधुरयं तिरयस्तिमिरं दिशाम् । कुमुदद्वन्धुरपि हदिनीपते- रुदरजो दुरजो गर्द इत्यभूत् ॥ १०॥ मलयजातनयोऽनुससार तद् रघुवरप्रहितोऽहितभास्करिः। कपिवरण पर परिपालितं हरिपुरं रिपुरञ्जनशीलिना ॥ ११ ॥ तमवलोक्य पुरः पुटभेदने कृतकपाटपिधानसुदुर्गमे । कषिवराच्छवराः समवस्थिताः नियुतशोऽयुतशो धृतपादपाः ॥ १२ ॥ कपिवरानवलोक्य स लक्ष्मणः करगृहीतशरासनसायकः। सपदि मेत्तुमनाः पुरमास्थितो- उधृत रसां तरसाऽस्य कियत्पुरम् ॥ १३ ॥ समवलोक्य तथाविधलक्ष्मणं कपिपर्ति सकलत्रतनूवम् । धुरि निधाय तदङ्क्तिलेऽपतत् पवनभूवनभूतहरिवजैः ॥ १४ ॥