पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः ‌

अधिशिलीन्धमरन्दुमसावली मुदिततां तनुते सरसावलीम् । समयजो महिमा न विहन्यते बलवतापि हि शात्रवहन् यते ॥ ५ ॥ जलघराबलिरावृणुते वपु- दिनमणे: रजनीनृपतेर्वपुः कमलकैरवगन्धहरो मरुत् धुनिशबीजवितानकरोऽमकः ॥ ६॥ प्रियगिरोऽपि विलोकय मौनताः परभृताः दधतेऽकलमौनताः प्लवगणान् समुदीक्ष्य वदावदान् न समयो न इतीव वदावदान् ॥ ७ ॥ जलमुचोऽनुरुवन्ति शिखण्डिन- स्त्वचलसानुनि चित्रशिखण्डिनः । विदधते नियमान् सुसमाधयः परिगताङ्गिककामसमाधयः ॥ ८ ॥ अनुज बोधय सूरसुतं हरि जलधरा गतवन्त इति स्फुटम् । घवलिमा ह्यभवत्सलिलाशये कलशजोयजोड्यवान् क्षितौ ॥ ९ ॥