पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः।

वयं खलसमाकीर्णे भ्रमामो विपिने कषे । संरक्षणाय साधूनामितरेषां वधाय च ॥ ९९ ॥ वाली ज्ञात्वा रमाकान्त स्तुत्वा नत्वा पुनः पुनः । तं वीक्ष्यमाणस्त्रिदिवं जगाम जगतां पतिम् ॥ १० ॥ अङ्गदो यौवराज्येऽथ स्थापितो वालिनः पदे । सुग्रीवो राघवेणेव त्वस्ते रार्द्धधातुके ॥ १०१ ॥ जनकवचनलक्ष्यादागतो दण्डकाय विपिनमहरदुग्रं भारमस्याः रसायाः । अनुजसहितवासः प्रादिके वर्षणाद्रौ सजलजलघरश्रीलक्ष्मणो लक्ष्मणेड्यः ॥१०२॥ इति श्रीरामविजयमहाकाव्ये श्र्युङ्के श्रीरूपनाथोपाध्यायकृतौ वालिवधो नाम सप्तमः सर्गः ॥ ७ ॥