पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

विहस्य राघवेणाथ क्षिप्तः पत्री तृणाधिपान् । भित्त्वा सभूमिकानेत्य तूणे प्रारबदवस्थितः ।। ८९ ॥ दृष्ट्वा राममनायासं लज्जितःक्षम्यतामिति । वदन् स्तुत्वा हरिस्तस्य प्रपात पदयोरधः ।। ९० ॥ तमुत्थाप्याबदद्रामस्तं गत्वाऽऽह्वय वालिनम् । मैत्री ते सफलां मित्र करिष्यामीति मा शुचः ।। ९१ ॥ अथाहूतागतो ज्येष्ठोऽनुजेन युयुधे सह । समाकारतया रामो नामुञ्चत्पत्रिणं परे ॥ ९२ ॥ मुष्टिपिष्टागतममुं रुदन्तं प्रेक्ष्य राघवः । मालया कण्ठलम्बिन्या सहैन प्रेरयत्पुनः ॥ १३ ॥ पुनरागत्य संश्लिष्टौ निरीक्ष्य युधि तो हरिः । अवन्मित्रमहञ्छत्रु नागोष्ट्रविधिनेषुणा ॥ ९४ ॥ वृक्षखण्ड़े लीयमानं वाली वीक्ष्य रघूत्तमम् । साक्षेपमेनमवदत् किं चोर इव माऽवधीः ॥ ५५ ॥ किं कार्यमकरोद्राम सुग्रीवो न मया कृतम् । वृथैव ते श्रमो भाति न भक्ष्यं वानरामिषम् ॥ ९६ ॥ ऐषिष्यं चेदहं राम लङ्कामुत्तोल्य साधिपाम् । त्वत्पादाग्रेऽक्षप्स्यमेव सर्वथाऽनुचितं कृतम् ॥ १७ ॥ ब्रुवन्तमेवं तं रामोऽवदत् क्रोधारुणेक्षणः । न क्षत्रियः परबलात् परं जेतुं समीहते ॥ ९८ ।।