पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः

सुग्रीवोऽप्यवदद्रामं दुन्दुभिर्दुन्दुभिस्वनः । आह्वयन्महिषाकारो वालिनं कलयेऽसुरः ॥ ७९ ॥ वाली स पातयित्वा तं शिरो हृत्वा सशृङ्गकम् । चिक्षेप तत् पपातात्र मतङ्गाश्रमसन्निधौ ॥ ८ ॥ शप्तस्तेनर्षिणा चात्र यद्यागन्तासि नो भवेः । ततो बाल्यगमादत्र नगे तिष्ठामि निर्भयः ॥ १ ॥ विरोधहेतुं वक्ष्येऽहं सहेतुं तेन वालिना। मायाविना समाहूतो मयपुत्रेण सोऽन्यदा ॥ ८२ ।। वाली बलावलेपेन बलवान् निःसृतो गृहात् । न्यगृह्णान्मयजं सोऽथ विवेशाशु विलं गिरेः ।। ८३ ॥ पश्चात्तमनुविष्टस्य तस्य मासाद्गताद्विलात् । निर्गच्छताऽमृगोधेन मतो वालिवधोऽनुगैः ॥ ८४ ।। महत्या शिलयाऽऽच्छाद्य वैवरं मुखमागतैः । अनिच्छन्मान्त्रिभी राज्येऽभिषिक्तोऽस्म्यहमानहात् ॥८५|| हत्या रिपुं बलाद्वाली विलानिःसृत्य वेगतः । बबाधे मां पुरीमेत्य तेनागामगमं नगम् ॥ ८६ ॥ सप्ततालानसौ वाली निष्पत्रान् कुरुतेऽञ्जसा । एकेन दोष्प्रहारेण तस्यैतत्पौरुषान्तरम् ॥ ८७ ॥ पत्रिणैकेन सच्छिद्रान् तान्करोषि यदा तदा । समरे समरक्षाधिन् श्रद्दधे तद्वधं त्वया ॥ ८ ॥ रा०-१०