पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः

खरदूषणत्रिशिरसो वचनं तदुदीरितं समवकर्ण्य रुषा। सममादिशन्त निधनाय रिपो- रयुतं चतुःसमधिकं स्वबलम् ॥ ५७ ।। रजनीचराः रुरुधिरे सदनं रघुनायकस्य यमराट्सदृशः । शलभा यथैव दवहव्यभुजं निधनाय पक्षसहिता अहिताः ॥ ५८ ॥ इति लक्ष्मणं समवदन्नृपति- र्जनकात्मजा त्वमुटजेऽव भयात् । अहमेव राक्षसगणं सकलं विशिखैर्नयामि शमनस्य सदः ॥ ५९ ॥ इति राघवः समुदीर्य ययौ कलशोद्भवात्तचशरचापधरः। अभितो निशाचरबलं तरसा मकरालयं सकरराज इव ॥ ६ ॥ अथ राक्षसा रघुवरं विशिखैः समवाकिरञ्च्छिततरैरभितः धरणीधरं जलधराः सलिलै- रित्र वेपथूज्झितममन्दतराः ॥ ६१ ॥