पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

इति वादिनीं प्रतिजगाद कृती कुशलेऽनुयायिनमवेहितमाम् । नृपतेरिमं किमु सुखं भविता पुनरेव गच्छ तममन्दमते ॥ १२ ॥ पुनरायतीं समभिवीक्ष्य सुता जनकस्य तामथ जहासतमाम् । प्रकृतिं समेत्य विनिहन्तुमनाः पिशिताशनाऽभिसरति स्म च सा ॥ १३ ॥ कथितोऽनुजो विकृतये प्रभुणा निकषात्मजामतिशितेन तदा । असिना सगन्धवहकर्णयुगो- ल्लवनात् चकार विकरालतमाम् ॥ ५४॥ अथ दूषिताऽस बदनात् पिशिता- द्बत भूषितापि खरदूषणयोः। सति दूषणानि हि विधातुमनाः स्वयमेव दूषणफलं लभते ॥ ५५ ।। जगदे तया त्रिशिरसा सहितः स खरोऽथ दूषणयुतः प्रखरम् अनिमित्ततोऽकृत दशामियती- मिति लक्ष्मणोऽग्रजवचोभिरलम् ॥ ५६ ॥