पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। विदधेऽनुजेन रमणीयतरं भवनं निशान्तविधये पटुला । अनुगोदमाशु सुरराजगृहा- दपि चारुनिर्मितिवहं विभुना ॥ ४२ ॥ कुरुते स्म तत्र गमनागमनं जनकात्मजा तदुभयान्तरतः । रसनेव दन्तवसनान्तरिता पतिदेवतार्चनरता परमा ॥ ४३ ॥ अनुगोदमद्रिशिखरे विपिन सरितो महातरुवरे पुलिने । मृगयाऽपदेशवशतो मृगयन मनुजाधिपो विनयति स्म रिपून् ॥ ४४ ॥ कुलिशातपत्रणिपायव- ध्वजलक्ष्मभिश्चरणयोरवनीम् । रघुनायकोऽथ सुषमाऽवधिभिः पदकैरबूभषदलङ्करणैः ॥ १५ ॥ असती समीक्ष्य किल शूर्पणखा युलिने पदानि रघुवंशमणेः। वशमाययौ रतिपतेः सपदि स्वरभङ्गकम्पपुलिकाक्ततनुः ॥ ४६ ।।