पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः

रुचिरां विधाय जनमोहितनू- मुटजाद्बहिर्गतवती पिशितात् । न सुकेशिकाऽपि कचतो हि समा जितरम्भिकोरुरुचितोऽथ यतः ॥ ४७ ॥ न तिलोत्तमाऽपि तलतः सदृशी न घृताच्यपि प्रपदतो नखतः जितमेनका कुचयुगेन यतो वचसोर्वशी न सदृशी सुभृशम् ॥ ४८ ॥ वदति स्म रामममि शूर्पणखा त्वमुरीकुरुष्व निकटोपगताम् । स्वयमेव मामपरथा सदनो विशिखेण हन्ति भक्तोनु कृते ॥ ४९ ॥ मम सङ्गमेन सुखलेशमपि क्वचिदाप कापि ललना वशिनः बहिरस्ति ते समुचितोऽवरजो गदितेति तेन बहिराप च सा ॥ ५० ॥ प्रभुणेरिता तव समीपमगा- मुररीकुरु त्वमतनुज्वरिताम् । अव मा त्वदङ्गपरिरम्भसुधा- श्रितजीविताममरवैद्यरुचे ॥ ५१ ॥