पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरतो द्वियोजनपरे रुचिरा क्षितिजापतेऽस्ति किल पञ्चवटी। गमनं कुरुष्व वसतो भवत- स्तत एव भाव्यमखिलं भविकम् ॥ ३७ ॥ इति बोधितो रघुवरो मुनिना- ऽगमदाशु मध्यवनितः पुरतः ! अनुगानुजोऽध्वनि निवर्त्य मुनिं सहगामिनं सविनयं शनकैः ॥ ३८ ॥ समटन् विलोक्य गिरिकूटनिभं स जटायुषं विकटचञ्चुपुटम् । कपटेन पक्षिवपुषं दितिज कलयन् शरं समदधाद्धानुषि ॥ ३९ ॥ स जटायुराशु रघुनाथमथो वदति स्म तेऽस्मि जनकस्य सखा । इतिवेदितो रघुवरः पतगं सममानमत् सविनयं पितृतः॥ ४० ॥ समया शिवस्य जटया जनितां तटिनीं पपाट किल पञ्चवटीं । सजटास्फुरन्तरललाटतटः परिवीतचीरपटासिंहकटिः ॥ ११ ॥