पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। भगवन् भुवा सुरभिरूपभृता दितिजादिभारपरिखेदाविदा । विनिवेदितेन विधिना विधिना प्रतिबोधितोऽभवदरं मनुजः ।। ३२ ।। अज एव शाश्वत उपाध्य्युतः परिपूर्ण एक ऋतधामधरः। परिणामहीन उरुगीतयशो न विनाशमेषि परतोऽपि परः ॥ ३३ ॥ परिपालनाय महतामहत- प्रभुतोऽसता हि निधनाय विमो। अवतीर्थ कार्यमखिलं विदधन् निजमाययाऽवनितले रमसे ॥ ३४॥ तव दर्शनेप्सुरहमासमहो- बहुतामिहैव तपसे निवसन् अभवच्च तन्मम महाभगता- मनुवर्णये किममरासुलभम् ॥ ३५ ॥ हृदये वसत्वविरतं भगवन् मम जानकीसहित एव विभो इषुघी धनुस्तनशरे उररी- कुरु सायको च रिपुसायकरौ ॥ ३६ ॥