पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उटजान्तिकस्थितवता प्रभुणा पटुना सुतीक्ष्णबटुकः प्रहितः । मुनये निवेदितुमुपेत्य मुनि समुपागतौ समवदन्वरौ ॥ २७ ॥ शरदम्बुदाम्बुयुतमेघसमा- बतिसुन्दरी मुनिसुवेषधरौ शरचापभूषिततनू तनुजा- ववनीपतेरतिरतीशरुची ॥ २८ ॥ इति शिष्यवाक्यमनुकर्ण्य मुने- र्बहिराजगाम तनुतः प्रमदः । कवलीकृताखिलकबन्धनिधे- रपि रोमहर्षणमिषेण न मान् ॥ २९ ॥ कलशोद्भवः प्रतिययौ सफलः सकलेश्वर स्वकुटमापयितुम् । परिपूज्य तं निखिलपूज्यतमं वनिताऽनुजान्वितमवाप सुखम् ॥ ३० निज आश्रमे समुपवेश्य मुनि- र्मुनिवेषधारिणममुं मुदितः। परिभोज्य बन्यफलमूलचयैः स नुनाव नव्यसमलैर्वचनैः ॥ ३१ ॥