पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये शरभङ्ग उत्पुलकितोऽभिययौ रधुनाथमचितुमना विधिना परिपूज्य तं सपदि चार्हणया कृतकृत्यतामगमदेव मुनिः ॥१८॥ मुनयोऽगमन् रघुवरं नृवरं समुदीक्षितुं विपिनवासकृतः । समुदीक्ष्य तं समवदत् भगवन् परिदृश्यतां विपिनमस्थिभयम् ॥ १९ ॥ समयन्नयं मुनिभिराप्ततमैः समुदीक्षितु सह वनं सकलम् । सकपालमालमभिवीक्ष्य शिवासहितं स्मरन् शिवमभूदुशिवः२० कति वत्सरान् विगतमत्सरकैः सह तापसैरुषितवानुटजे । मृगया मिषेण मृगयन् दनुजाननुजानुगःस शरचापधरः॥२१॥ तव राम मन्त्रजपनादभवं त्रिदशादिपूज्य उदितो मुनिना । शमनोऽपि सर्वदमनोन मनोविषयी कृतः किमिति येत्वपरे।२२ समुनीनुवाच शमयन् सुवचा वचसाऽतिदुःखमनिहार्यतमम्। प्रतिजज्ञ आसरगणं पुरतो विनिहन्तुमन्तक इव प्रसमम॥२३॥ घटजन्मदर्शनसमुत्सुकितोऽचलदाशु चापशरवानरिहा । धनुषावभासिनवनीरदवन्मृगराजवल्ललितमन्दगतिः ॥२४॥ घटजन्मनोऽनुजवनं ददृशे मनुजोज्झितं दनुजजातभयात् । अनुजान्वितेन मनुजेन्द्रतनूजनिना जनाश्रयवियुक्ततम्२५ ससुतीक्ष्णतापसविदेहसुताऽनुजलक्ष्मणः प्रकृतिलक्ष्मणकः । प्रजिघाय कुम्भजवनं कदलीपनसाम्रनीपलवलीमदसौ ॥२६॥