पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

, चल दण्डकाख्यविपिनं सभयं चलदण्डजान्तरशिखण्डिचयम्। मृगकीशशूकरमृगादनभृत शशशल्लकीवृकशृगालवृतम्॥९॥ चलतस्तथा वचनमुक्तवतोऽङ्गनयाऽनुजेन सहितस्य ततः। पुरतो विराधनिकषातनुजो मनुजान्तकोऽन्तक इवाविरभूत भुजशीर्षशूलशिखरग्रथितामितमानयोऽमितबलः पिशितात । विकरालवक्त्रशितदन्तरुचा स्नपयन्निवावदसौबत तान्॥११ कवलोपमा मम मुखे गमिता विधिना घृणाक्तमतिनाऽमतयः। प्रकृतेर्ललामवपुषो मृदुला भवत स्थिरा अतिजडाः पुरतः॥१२॥ इति वादिनोऽभिमुखमापततो धृतशाखिनोऽस्य रघुवंशवरः। करपादशीर्षमिषुभिर्व्यहरलघुहस्ततां प्रकटयन्नमिताम् ॥१३॥ तत उत्थितो वितिरयन् पुरुषो महसा दिशश्च विदिशः सहसा। वदति स्म राममहमस्मि पुरा सुरगायकोऽतिकुशलो मधुहन्।।१४ गमितो दशामहमिमां मुनिना गिरिशांशजेन हसितेन विभो। अधुना वरेण सदृशोऽजनिस त्वमगाः कथं नयनगोऽपरथा॥१५ नरके वसन्तमपि मा स्मरणं न जहातु ते तव जनेऽस्तु रतिः। स जगाम धाम निजमित्थमसौ परियाच्य राममवनत्य विभुम् ॥ १६ ॥ पुरतश्चलन्स शरभङ्गमुनेविपिनं शरासनमिषुं च दधत् । जनकात्मजानुजयुतः प्रबभौ पुरुषो यथा प्रकृतिजीवयुतः।।१७