पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

E षष्टः सर्गः। जनतापहाऽपि जनताभयतश्चलितुं स्फुटं नरवरोऽनवरः । समियेष दण्डकवने जनताऽजनताविधौ कृतमतिर्मनसा||१|| चलति स्म तद्भिरिवरादवरोऽवरजानुगो महिलया सह सः । चपलान्वितस्य मुदिरस्य हरमनुगामिहंसपततः सुषमाम् ॥२॥ सुजगाम राम उटजं मुनेविटपोल्लसद्विटपिचारुतरम् । निजवैरितोज्झितमृगादिवनं श्रुतिसारपाठपटुतेतबटुम् ॥ ३ ॥ मुनिरविरादरपरो विदधेऽपचितिं समागतक्तः सदने । अनुजाबलासहितदाशरथेरियमेव रीतिरनघा हि सताम् ॥ ४॥ अनुसूयया जनकजा वसने त्वजरे विभूषणयुगं श्रवसोः । परिदाय कायहितरागमियंबहुमानिता दिनमुवास सुखम् ॥५॥ प्रग एव दाशरथिरात्तधनुर्वनिताऽनुजाग्रसर आश्चमतः । नमनं चकार गमनाय मुनेरनुसूययाऽथ सहितस्य द्रुतम्॥६॥ मुनिशिष्यदर्शितपथः प्रचलन् स नदीमगाधसलिलामगमत् । अवतीर्य तां तरिकया बटुकैरथ सार्द्धमाप परतीरमसौ ॥७॥ स निवर्त्य ताननुवजवटुकान समुदीक्ष्य लक्ष्मणमचष्टतमाम् । सगुणं विधाय स धनुः कुरुताजनकात्मजां तव समान्तरतः।८