पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति रामवचोऽर्थसारविद्धरतः प्रार्थ्य पटीरपादुके । वररत्नसमूहसन्धिते प्रभुतां कारयितुं निवृत्तवान् ॥५९॥ अनुनीय विनीय मानवान् विनिवयं स्वगृहानघूद्वहः । परिदृष्टतदीयसाधुतागतवद्दुःखचयानदुःख्यभूत् ॥ ६॥ रघुवरवचनावाप्तसंशः सपदि स नन्दिपुरं पुरोपकण्ठे। विषमिव विषयं त्यजन्नुपेत्य नरपतिकर्म चकार भूशयानः ॥ ६१ ।। छायाधर्मानुभाजाऽतनुवरवपुषा प्राप्तनैसर्यभासा स्वामिश्राव्यान्यवाचा विधुशुचियशसा विश्वविख्यातनाम्ना। श्रीरामोऽप्यात्मरामो रुचिरतरुतटे चित्रकूटे शमापत् सार्द्धं वृद्धानुसेवी वसतिमधिवसन् सीतया लक्ष्मणेन ॥६२।। इति श्रीरामविजये महाकाव्ये थ्रयङ्के श्रीरूपनाथोपाध्याय- कृतौ भरतप्रत्यागमनो नाम पञ्चमः सर्गः ॥५॥