पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। प्रसमीक्ष्य पुरोगमं गुरुं भरतस्याथ पदातिचारिणः । समुपेत्य कृतानती च तौ मुदमासेदतुरन्तरुत्तमाम् ॥४९॥ भरतं पढ़योरुपागतं प्रणिधायोरसि संलिलिङ्ग सः । जननीमय वीक्ष्य दु:खितो विधवावेशवतीमभूत्तराम्॥५०॥ तमृषिः समुवाच निर्गुणो निजमायाश्रित देहवानित्र । प्रतिभाति भवान् हि केवलः श्रुतिमिर्मुग्यत एव नाप्यते॥५॥ गुरुणेति स सान्वितोऽकरोजनकस्योत्तरकर्म राघवः । फलमूलजलैरदन्ति तत् पितरो यत्तनयर्हि भुज्यते ॥५२॥ भरतोऽथ करौ सुयोज्य तं समवोचद्वचनातिकोविदः । चल राम नृपासनं गुरोरधितिष्ठ प्रतिपालय प्रजाः ॥१३॥ वचनं कुरु चाश्रवस्य में करुणासागर मा चिरं कृथाः । यदिदं विहितं कदम्बया विदितं मे न भवत्पदे शप॥५॥ इति वाक्यममोघमूचिवान् विररामाग्रजमार्यसम्मतः । कृतिनो मितभाषिणोऽमलाः प्रकृतेरेव भवन्ति कोमलाः॥५५॥ अनुजं परिसान्त्वयन्नयं स्मयमानो रघुनायकोऽवदत् । गुरुभाषितमावयोः सदा महनीय कमनीयशीलवन् ॥५६॥ प्रभुता जनकेन तेऽर्पिताः विपिनं मेऽनृतभीतिमत्तया । श्रुतिधर्मविदा लया मया करणीयं किल शासनं पितुः॥२७॥ तनुजैरघभीरुभिर्गुरोः करणीयं वचनं हितेप्सुभिः । श्रुतिशास्त्रविदा पुरातनी श्रुतिरेषा परिगीयते सता॥५८॥