पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये अवबोधबलं महाबलं तदभावे गतिरीदृशी नृणाम् । शिवताखनिमेत्य मर्त्यतां शवतां यान्ति ज्ञतां विना नराः॥२९ गुरुरेव गुरुः प्रतीयते गुरुशब्देन न चापरः किल । उपदेशत एवं केवलो भवति व्याहृतिरस्य दुश्छिदा॥३०॥ सरिदोघपतन्महीरुहां मरुता योगवियोगकाविव । पितृमातृकलत्रपुत्रतां भजतां देहवतां स्वकर्मणा ॥ ३१ ॥ पुरुषं समुपैत्यनेहसि स्वकृतं कर्म पुरातनं यथा । स्व ऋताववनीरुहं फलं नृपसूनो परिदेविताऽत्र का ॥३२॥ जहि शोकममुं महामते खरबोधासिवरेण दुःसहम् । यत एवं हि मुग्धता भवेत् नुरवार्या तत एव संसृतिः॥३३॥ कुरु कार्यमथौ दैहिकं जनकस्यामरलोकवासिनः । सुततेयमुदीरिता सता परलोकेतपितुर्यदहणम् ॥ ३४ ॥ मुनिनेत्यमुदीरितस्ततो भरतः श्राद्धमशेषतोऽकरोत् । गजवाजिमहीहिरण्यगोरथकुप्यांशुकरत्नमत्यजत् ॥ ३५ ॥ प्रणतः परितोष्य वाडचान् परमानेन सदक्षिणेन सः । परिभूय नृपासनं मनः सचिवैर्दत्तमघत्त राघवे.॥ ३३ ॥ भरतोऽथ जगाम धामतः सह साकेतनिवासिभिर्जनैः श्रुतिनिष्ठवशिष्ठमृष्टशुगनुनेतुं जननीं विनाऽग्रजम् ॥३७॥ लपनेन लपन्रघूत्तमं हृदयेनापि तदङ्घ्रियुग्मकम् । गुहरक्षितमाययौ पुरं सह सैन्यैः परिचिन्तयन्नयम्॥३८॥