पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः। प्रथमं निजमातुरालयं नृपहीनं गतमङ्गलोत्सवम् । स ददर्श दिवाकरोज्झितं व्यवहारैः रहितं दिनं यथा॥१९॥ जननीं समुवाच साश्रयं समुदीक्ष्याम्ब नृपः क्व साम्प्रतम्। भवन नगरं च पूर्ववन्नाहि मे भाति किमत्र कारणम् ॥ २० ॥ जननी तमुवाच सादरं शृणु हे वत्स यथा मया कृतम् । गतवृत्तमचष्ट सर्वशो भरतोऽथ व्यथितोऽवदत्तराम्॥२१॥ लपनं तव दर्शनोचितं प्रतिभात्यम्ब न रामविद्विषः । रघुवीरपराङ्मुखा नरा नियतं दुर्गतिवासभाजिनः ॥२२॥ रघुनाथपरे तवोदरे जननि प्राप्तवतो जनुनम । नरकेष्वनिवारिता मता वसतिश्चन्द्रदिवाकरावधिः ॥२३॥ न भयं यदि मेऽशुभे भवेद्रधुवीरस्य सुदुर्मते तदा । नरकार्तिभयं मनागपि न हि कुर्वीय स मातृधातजम् ॥२६॥ अथ रामकरे न मामकं पितराधाय करं कथं स्वगाः । अधुनाऽयमहं कुमातृको जनुषः पारमियामहो कथम् ॥२५॥ परिनिन्ध स मातरं शनैः सदनं ज्येष्ठविमातुराययौ । शपथादि पपात तत्पदे विलपन्नश्रुजलाविलक्षणः ॥२६॥ यदि पुत्र महीयसन्निधावभविष्योऽत्र तमादिदेश सा । इति तात तदेडशी विपत् त्वभविष्यत्कथमस्मदादिषु ॥२७॥ समचष्ट वशिष्ठ इष्टवाक् शमयन शोकममुष्य दुःसहम् । वचनैः स शुचोऽपनोदनैर्नृपतेः कर्तुमथोत्तरक्रियाम् ॥२८॥