पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये अवरोधवधूजनास्तदा रुरुदू राजशुगाकुलाकुलाः । रघुनाथवियोगदुःखिताः प्रथमं दुःसहवेदनातुराः॥९॥ अथ पौरजना भृशं शुचा मुमुहुर्मीनगणा इवाजलाः । समवाप्य मनस्सु चेतनां प्रविलेपुर्नुपकीर्तिकीर्तनात् ॥१०॥ चतुरो चतुराननोऽथ चेन्न भवेद्रामवियोगदायकः । सति तादृशि तत्र मादृशां भवनीया कथमीहशी व्यथा॥१२॥ तव बुद्धिरियं विधे मनागवभातीव मनस्सु मादृशाम् । कुशलाबसरे कथं भवेद्विपरीतो नहि चेत्प्रजापते ॥ १२ ॥ जलजातजने न जग्मिवान् सहजस्ते निजहेतुतागुणः । न हि चेन्महमध्य ईदृशी विपरीतैव कथं भवेन्मतिः॥१३॥ मतिरेव हि पूज्यते क्षितौ तदभावेन सतामियं कृतिः । रघुनाथललाटपट्टके विपरीतामलिखो लिपि विधे ॥१४॥ विलपत्स्ववरोधवासिघु वितरेष्वित्थमुपेत्य याजकः । अवबोध्य जनान्मुनिःशवं तरणौ तैलयुजि व्यधारयत॥१५॥ भरतस्य स तूर्णमैरयत्सविधे वैवधिकं द्रुतङ्गमम् । नृपतेर्विधिनौर्ध्वदैहिकं सुविधातुं परलोकवासिनः ॥ १६ ॥ भरतोऽथ जगाम मातुलाच्छुतवान् वैवधिकान्नृपोक्तिकाः। नगरं प्रति सम्प्रति प्रगे मनसा दुःखयुतेन चिन्तयन् ॥१५॥ तनयैः सहितस्य भूपतेः परिवारेण च सर्वदा शुभम् । भक्तादिति भावयन्मुहुःप्रतिपेदे नगरं शुचाकुलम् ॥१८॥ ।