पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः। अथ भूपसमीपमागतो धृतरामोदितदुष्टवाचिकः । सुहृदेव सुमन्त्रमन्त्रभृदभिधातीव नृपेण लक्षितः ॥१॥ स च पृष्ट उवाच भूमिपं तमसावासकृतोपवासकः । गुहमित्रसमाहृतः फलैः रघुवीरः कृतभोजनःप्रगे॥२॥ अनुजेन च भार्यया समं बहुपातक्षीरशिरोजटा व्यधात् । बचनस्थगुहेन रक्षितो निशिसुप्तो धृतकार्मुकेषुणा ॥३॥ कुरु तात न दुःखमण्वपि नतिपूर्व गदतेति मत्कृते । त्वयि देव समातृकेऽगमं रघुवीरेण विसर्जितस्ततः ॥४॥ विलपन्नथ भूमिपो ययौ महिषीधाम निकामपीडितः। रघुवीरवियोगभोगिना कुशलं कापि न दष्ट आप्नुवन् ॥ ५॥ क्षितिपोऽपि तयेति भाषितो नृपतित्वं भरताय सूनवे । मम दत्तमरण्यमात्मना भवता रोदिषि किं मुधा पते ॥६॥ बदति स्म नृपः प्रियामथो सुतविश्लेषकृपाणविक्षते । हृदये वचनं त्वयोरित लवणायेत ममाद्य कोपने ॥१७॥ सशुगन्धवचो भवत्वृतं महिले सत्यवति ध्रुवं मयि । इति हेतुतयेव भूमिपः सुतहूति प्रजपन् ययौ दिवम् ॥८॥