पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। सन्निधाय फलमूलकदम्बं धीवरो रघुवरस्य पुरस्तात् । भुज्यतामिति वदन् प्रपदाग्रे दण्डवत्प्राणिपपात धरण्याम् ॥९७ आलिलिङ्ग सह तेन परात्मा चाहतं स्म भरतादधिकस्त्वम्। आनिनाय्य वटदुग्धमनेन स्वाः जटाः समकरोद्रधुनाथः॥९८ लक्ष्मणेन सह गुहेन निशाया रक्षितोरघुवरोऽथ शयित्वा। उत्थितो वनितया सह कल्ये देवसिन्धुतरणाय तरण्या।।९९॥ यापयन् रथयुतं स सुमन्त्रं संदिदेश जनकाय जनन्यै। मत्कृते न कुरुतां सविमात्रे मन्युमात्मनतिमित्यवदच्च ।।१०० आरुरोह तरणौ तरणौ संबोदिते तरणिवंशजनिः सः । मित्रताऽऽतरकृतार्थगुहस्त्रीलक्ष्मणैः सुरसरित्तरणाय ॥१०॥ उत्ततार सुरसिन्धुमबन्धुं कल्मषस्य सुकृतस्य खनि सः । शर्वसङ्गभसिताक्तपयोभिर्निक्तपापमलिनांशुकपुञ्जाम् ।।१०२ सन्निवर्त्य निलयाय सखायं पादपामधुपायितशीर्षम् । आश्रमं मुनिवरस्य भरद्वाजस्य दाशरथिराप सुरम्यम् ||१०३॥ पर्यपूपुजदमुं स महर्षिर्ण्यमूलफलकं सकलत्रम् । लक्ष्मणेन सहितं समुदञ्चद्भक्तिलब्धपरिहर्षनिमनः॥१०॥ संलपन्स मुनिना रजनीं तां संव्यतीतमुनिभूमिपतीनाम्। वार्तया परिंगमय्य निशान्ते तीर्थराजवसतेरथ यातः ॥१०५॥ नौकया समवतीर्य विवस्वत्कन्यका रघुवरः सरितं सः। चित्रकूटमगमन्नगराजं दर्शितोत्तमसृतिर्मुनिशिष्यैः ॥१०६