पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। चीरवस्त्रयुगलानि गृहीत्वा पर्यधादनुजदारसमेतः । मूर्तिमानिव वधूसखयुक्तो दर्पको रघुवरः स च रेजे॥८॥ स्थापिते नृपनिदेशविधात्रा मन्त्रिणा रथवरे रघुवीरः । आरुरोह वनितावरजाभ्यां साकमाशु गमनाय समुत्कः॥८९ आनुनोद चतुरश्चतुरोऽश्वान् वेगनिर्जितसुपर्वतुरङ्गान् । तैः क्षणेन तमसामथ तीर्खा ते निषेदुरवनीलहमूले ॥९॥ मातरं च भरतस्य शपन्तः सत्यतेति नरपे व लपन्तः । आययुस्तमनु पौरजनास्ते रामचन्द्रविनिवर्तनकामाः ॥९॥ तेऽपि तीर्णतमसास्तमसागस्तीरजाततरुमूलनिकेताः । तान्विलोक्य निशि राम उदस्थादारुरोह रथमाप्तयुतं सः ॥९२ तेतु दुःखमतुलं खलु माशुः पत्तनाभिमुखमेत्य पुरस्तात् । वक्रमार्गगमनेन पुनस्ते शृङ्गवेरमगमन् करुणातः॥ ९३ ।। प्रातरात्तगतयः घुरलोकाः स्यन्दनस्य नगराभिगतस्य । सन्निवृत्य विविशुनिलयान् स्वान् चारतो निजगृहान ग्रहवत्ते ॥ १४ ॥ शिंशपातरुतले सुनिषण्णान् वीक्ष्य तान्समुदियाय गुहोऽथ। अग्निभूरिव शिखण्डिविहारी तारकामयजयी गुरुशक्तिः ॥९५ आह च स्म मम नाथ विश त्वं दण्डकादपि वनं हि गरीयः। तत्र तत्रभवतो वसतोऽयं यास्यति क्षणसमस्तव कालः ॥९॥