पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। राघवेरितमिदं श्रुतवत्या केकयाधिपतिमूटदुहित्रा । चीरवस्त्रयुगलं मुनियोग्यं राघवाय समदत्त बनायः ॥६९।। सोऽभिसृत्य जननीमिदमूचे बोधनाय गमनस्य वनान्ते। अम्ब तातचरणस्य सपर्या सर्वदा मधुरिपोरिव कार्या ॥७॥ अम्ब तातवरणैः किल राज्यं दत्तमत्र भरताय महीयः । दण्डकाख्यवनराज्यमकण्टं मह्यमेव निखिलं जनगुप्त्यै।।७१॥ प्रेषितोऽसि जनकेन वनाय त्वां रुणक्ष्मि हि बनाय गमो मा। मान्यता दशगुणाऽनसि ताताद्वारितोऽभवदिति प्रसवित्र्या७२ लक्ष्मणः प्रकुपितोऽथ बभाषे स्त्रीजितं जनकमाशु निगृह्य। त्वां दधामि नृवरासनमध्ये भुक्ष्व राज्यमपशत्रु महीयः।।७३ अन्तरायकूदतो भरतश्चेत्तं निहन्मि सह मातृकुलेन । आत्तचापमिति तं वचसा द्राग्व्याजहार शमयरघुनाथः।।७४ विद्धि वीरवर देहमनित्यं भस्मविकृमिदशं परिणाम । तत्कृते तु कलहं भुवि विद्वान् आः करोति मृगदंशकवत्कः।७५ तन्निदानमितरत्सुतजायाकोषराज्यगजवाजिरथाद्यम् । आत्मसादिदमतः कलयेत्कस्वादशः श्रितगुरुश्रुतसारः।।७६ वत्स वीर नृपतेर्जननीना रक्षणापचितिक कुरु तावत् । आगमावधि ममेति नियुक्तः कौशलेयमवदत्स कनीयान्।७७ दण्डक वनमहं प्रतिजाने त्वां ब्रजन्तमनुगन्तुमवश्यम् । त्वत्पदाञ्जपरिषेवितुकामं मां गृहाण रघुनाथ वनान्ते ॥७८५