पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। मस्तकोपहितरत्नकिरीटः कुण्डलोल्लसितकर्णकपोलः । वत्सपाणिचरणादिविभूषाभूषितो गुरुपुरस्सरगामी ॥५९|| आगतोऽथ भरतस्य जनन्या मोहिताप्तजनसेवि निशान्तम्। शान्तशातमुपचारविहीनं स्वामिशून्यसदनं व स रामः ॥६॥ संविलोक्य पुरतो वनितायाः निष्प्रभ पतितं पितरं तम् । पुण्डरीकदयितासविधस्थं मांसपिण्डमिव हेत्यवदत्साशा अम्ब किं न जनको वदतीमं सा सुतेन गदिताऽवदादित्यम् । राम राम वदतीति स कामं जीवनं नरपतेस्त्वधीनम् ॥६॥ लज्जते स मुखतो बत वक्तुं वत्स शृण्विति हि मन्निगदन्त्याः। प्रत्तमस्ति वरयुग्ममनेन सत्यवाक्यमवता त्वद्धीनम् ॥६३|| अम्ब किं वदास राममधीनं पुत्रताप्रथमलक्षणवन्तम् । वाक्यसारविदुरेति विमाता प्रत्यवोचदमुमर्थपरा सा ॥४॥ लभ्यतां मम सुतेन नृपश्रीर्गच्छ राम विपिनं पितृवाक्यात् । वत्सरान्सचतुरो दश वत्स तत्र तिष्ठ नगरे वस वाऽन्त॥६५॥ अब तातचरणस्य निदेशात्कार्यमेव सकलं करणीयम् । उत्थितो नरपतिस्तमुवाचतात रामवचनं मम कार्यम् ||६|| वत्स वत्स पदयोर्मम दत्त्वा शृङ्खलामतिदृढामधिकारम्। मां निगृह्य कुरु राज्यमकण्ट सत्यवाक्यकवचं सहदारैः॥१७॥ तांत तातचरणस्य निदेशात्कालकूटमपि पेयतमं मे। किं पुनर्निबसतो बद खेदो दण्डकादिविपिने सदने वा ॥६॥