पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। मद्विधेय इति मां कलय त्वं किं पुनर्वहसि सुभ्रु सुनित्यम् । ब्रूहि राश्यननुकूलविधाता कस्तवालि यमधामस याता ॥४९॥ तं वदन्तमबदद्दयितेति क्रोधरक्तनयनाननपद्मा। साधु साधु जनवञ्चनचुञ्चोऽनाथनाथ बत किंगुणकञ्चो।५०॥ बल्गुवाक्यपरिभाषणदक्ष क्रौर्यरज्जपरिणद्धसुकक्ष । छद्मकर्बुरितमानसवेश्मन्नास्यतामरसतुल्य हृदश्मन् ॥५॥ मातुलेक्षणमिषेण तनूजो यापितो निजपुरान्मम राजन् । राज्यभारमवतार्य शिरस्तो राम एव विनिधातुमनस्त्वात् ॥५२॥ वल्लभे त्वमिति पूर्वमवादी राम एष भरतादपि मान्यः। किं प्रतीपमधुना बदसि वंभूभुजेति गदिता दयितासीता५३॥ भूपति निगदति स्म तदा स्त्री छद्मवाक्यरहितो मयि यत्वम् । तर्हि मे यदनुकूलमतः स्यात्तत्कुरुष्व नियमेन महात्मन।५४॥ दत्तमस्ति भवता बरयुग्मं तस्य दानसमयः खलु यातः । दीयतां यदि मनस्तव दातुं सत्यशालिवचनाः खलु सन्तः५५॥ राज्ञि दातुमनसि श्रुतवाक्ये सत्यवादिनि वधूरययावत् । एककेन भरताधिपतित्वं रामवासमपरेण वनान्ते ॥ ५६ ।। भारती भरतमातुरयोग्या मर्मभेदकुशलाऽहिसरूपा । पार्थिवो हदि तया किल दृष्टः सौभगेन निपपात सहास्याः५७। राम राम विलपन्निति राम राम राम करुणारससिन्घो ।। राम राम मम पुन्नरकघ्न राम राम परलोकसुबन्धो ।