पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। आनकाश्च शतशः परिणेदुस्ताडिताःक्षितिपतेरधिशालम् । ताण्डवानि विदधुर्वलभीस्था बर्हिणो धननिनादविशङ्काः ३९ ब्रह्मकल्पविधिसूनुपुरोगा आगता द्विजवरा नृपगेहम् । पङ्क्तिशो रचितवस्त्रविभूषा आययुश्च गणका गणितेज्याः।४०॥ रोजिरेऽजतनुजस्य गृहान्ते सज्जिताश्च गजराजसमूहाः । गैरिकादिपरिभूषितशीर्षाः संस्थिता इव परे नगराजाः॥४१॥ सज्जिता नरपतेरतिदेशात् वाजिनोऽखिलवनायुजमुख्याः। मन्दुरामाभित आबभुरुचैर्भाण्डभासिवपुषो मुखसिद्धाः॥४२॥ कन्यकाः कमलपत्रकराग्रस्थायिरुक्मकमनीयसुपात्राः । राघवस्य युवराजपदत्वप्राप्तये समुपगम्य समासन् ॥४३॥ तोरणोन्नमितकेतनबत्या संञ्चरत्सरणिवारयुक्त्या । मागधोच्चरितवंशजकीर्त्या विद्युतेऽजनृपसूनुनगर्या ॥ १४ ॥ प्रेष्य धातृतनयं विनयेन रामचन्द्रसविधे स महीपः। आजगाम भरतस्य जनन्याः सदानीन्द्रभवनेन समान॥४५॥ तत्र तामनवलोक्य महीशः किङ्करी नु समपृच्छदमुष्याः । तिष्ठति के दयिता वद खेमर्पयन्त्यनुचितं मम चित्ते ॥४६॥ कोपसद्मनि स पद्मसमास्या वल्लभेति गदितो बत दास्या । सययौ सविधमाशु नरेशः केकयेशदुहितुः करुणेशः॥४७॥ भूतले स्वपिपि कच्चिदनहें वावदीषि मयि नो वचनार्हे । भूषणानि परिहाय किमर्थं द्राग्विधेहि गमनं मम सार्थमाध्या