पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः एतमर्थमवधार्य नृपेणोत्थापितो भरत आत्मपुरीतः । मक्षिकेव पयसः प्रियता क त्वत्सुते स्वयि कुतच नृपस्या॥२९॥ इत्थमेव वचनं निगदन्ती प्रावदच्च जननी भरतस्य । आलि किं वदसि राममभीक्षणं सानुरागमधिकं मयि विद्धि३० एवमेव वचनं प्रवदन्ती वक्रया प्रतिवचः सहसोक्ता । कौशलेयजननी नृपमान्या भोगिनी च भवती भविता श्वः३१॥ सख्यनिष्टमवलोक्य स वाच्यः किंसखेति हितहेतुमशासत् । वच्म्यतो हितमसम्परिपृष्टा धूमयोनिरिव कालसुवर्षी ॥३२॥ युध्यतो दितिसुतैर्मधवार्थे भूपतेरविदुषोऽपि वयस्ये । भग्नचक्रिशिवदारुवपायामङ्गुलिं सखि समर्पितवत्या ॥३३॥ रक्षितोऽयमददाय भवत्या संयुगे बरयुगं क्षितिषस्तै । तत्तु तत्र निहितं सखि काले दास्यसीति समयं कृतवत्या ३४॥ तस्य याचितुमयं सखि कालो याचयस्व नृपति वरयुग्मम् । त्वत्सुतस्य भरतस्य नृपत्वं राघवस्य च निवासमटव्याम॥३५॥ इत्थमालिवचनं विधिगत्या स्वीकृतं मनुजनाथयुक्त्या । गर्भधारणामिव क्षणमत्या कर्कटस्य निधने गृहमत्या ॥३॥ सा निशान्तमवधूय निशान्ते भूतले स्वपिति निर्मनुजे स्म। भूमिपालवरलाभविधानावध्यधीतकुशलामनुतन्त्रा १२ प्रातरेव जनता अनुपालाज्ञागृहीतबहुसम्भृतभाराः । आययुर्नुपसभं वरभूषावस्त्रशालितनवोऽतनुकान्ता