पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारणस्य मम कारणमासीरेक एव गुणभेदवशेन । ब्रह्मविष्णुहररूपधरो यस्तस्य कालकृतभीतिरियं का ॥१९॥ गर्हिता किल पुरोहिततेयं सर्वलोकविदितैव महात्मन् । बद्गुरुत्वपरिलब्धुमनस्त्वात् सा कृता तदभवन्मम राम२०॥ राघवं तमनुमन्त्र्य बशिष्ठो भूमिपाय विनिवेध सुवार्ताम्। संभृतं च समकारयदाशु राजभूतिसदृशं विधिदक्षः॥२१॥ उत्सबोत्सुकितभूरिजनायां तत्पुरि प्रहसिताञ्जमुखावाम् । प्रातराशुभवतादिति वादः संबभूव सहसा जनतानाम् ॥२२॥ गीतवाद्यनिनदोऽवधषुयाँ कुम्भतोरणवितानलसन्त्याम्। चन्दनचविशोषितधूल्यां प्रोद्धभूव परितः प्रतिगेहम् ।२३। भारतीं सुमनसोऽथ समूचुर्मन्थराहृदयमाविश भाषे । यौवराज्यपदलाभविघातं राधवस्य कुरु तन्मुखवाण्या॥२४॥ भारती समनुभाष्य तथेति तान् सुरान् परमकारणवेत्री। मन्थराहृदयमाशु विवेश त्वाविलाय करिणीव सरोम्बु ॥२५॥ तत्क्षणं समुपगम्य सकाशं नक्तमेव भरतस्य अनन्याः ।। साह च स्म महिला नृवरस्य कालरात्रिरिव जल्पनदक्षा॥२३ वञ्चिता नृपतिना मतिहीने वल्लभाऽसि बदतति निकामम। कोशलेशसुतया किमपूर्वं दुश्चरं तप उपासितमाले तत्सुतोऽथ भविता युवराजस्त्वत्सुतस्तदनुगश्च वयस्ये । लक्ष्मणस्तदनुसारितयाऽलं भोक्ष्यते सहवसन्नृपसौख्यम्