पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः । आजुहाव सचिवं स सुमन्तं संभृतं समुचितं च विधास्यन्। रामचन्द्रतनयं युवराजं स्वस्य काननगमं क्षितिपालः ॥९॥ आगतेन सचिवेन वशिष्ठमानिनाय्य नृपतिः समवोचत्। आर्य कार्यमुचितं युवराजत्वेऽनुमन्त्र्य भरताग्रजमाशु ॥१०॥ राममेत्य परमेष्ठितनूजोऽङ्गीकुरुष्व जनकस्य निदेशम् । अद्य तिष्ठ नियमे भवितासे यौवराज्यामिति वाक्यमवादीतीश सस्मितं मुनिमभाषत रामः कार्य एव जनकस्य निदेशः। किं तु तत्रभवतो भवतोऽस्मद्भाव्यकार्यविदतोऽङ्ग निदेशः१२॥ काल एवं कुरुते तनुभाजः पालयत्यविरतं हरते च । कालसादिदमतोजगदित्थं कोऽपि बत्ति खलु कालगति नो१३॥ कालपाशवसितो जन उच्चैनस्ययाऽऽत्त ऋषभो व पदं नो। गन्तुमीष्ट इति शास्त्रविचाराज्ज्ञायते स दुरतिक्रम एषः।१४॥ ज्ञानिनामपि मनो हरतेऽलं धीमतामपि धियं बत कालः। योगिनामपि समाधिमतोऽयं ज्ञायते कथमहो जनताभिः॥१५॥ कालकर्मगहने त्वतिदुर्गे मोहमेति महतामपि चेतः । मादृशां विषयकृष्टधियां किं मुह्यतीति मतिरब्जजसूनो।।१।। एवमेव वचनं निगदन्तं ब्रह्मसूनुस्वदत्तमुदारम् । ईदृशं न वचनं वचनीय पुरुषोत्तम कदापि निकामम् ॥१७॥ आगमिष्यदचलातलमेतज्जासितुं यदि भवान्न खलानाम्। पालनाय च सतामभविष्यन्मादृशां नयनयोः कथमाविः