पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। भूमिपे दशरथेऽवधनाथे व्याधयोऽभिभवितुं न विशेकुः । आधयोऽपि मनुजाननुकूलानीतयोऽपिवमुघामवतीत्यम्।। यावदातपति भानुभिरामीश्वरोऽधिवसुधं वसुधेशः तावदेव निखिलादपि कृच्छादौरसानिवजनान्स जुगोपा२॥ जानते स्म नृपति पितरं ताः पालनात्कुपथवारणतोऽपि । लाडनाच्च पितरो जनतानां केवलं जननहेतव आसन् ॥३॥ मान्य एष महतामपि राज्ञा पूर्वमेव महसा यशसासीत् । किं पुनर्विबुधराजनिकाशैरनशस्त्रकुशलैस्तनुजैस्तैः॥४॥ बुद्धिधैर्यबलशीलविभूतेर्मुख्यधीसचिवमन्त्रविचारात् । राम एष जनताबहुरागात्तन्नृपस्य न चचाल मनस्तः ॥५॥ यौवराज्यपदयोग्यतमोऽयं कर्णमूलमधिगम्य नृपस्य । कैतवेन पलितस्य नृपश्रीराचचक्ष इति किं गुणलुब्धा ॥६॥ स्वं विलोक्य नृपतिः प्रतिबिम्बं दर्पणे करधृते पलिताङ्कम् । भूमिभारजवधातुभमथैच्छद्राममूर्ध्नि चिरमात्मधृतं सः स्वैरिणीव काधा जरयाऽऽशु अस्तमुलसितरागमतीम्। प्रायशोऽवमनुतेऽतनुगात्रं चेतसेति नृपतिः समवोचत्