तृतीयः सर्गः शिक्षाविधानं दुहितुः प्रदाय गृहीतकण्ठा प्ररुरोद माता। प्रयाणकाले दुहितुः कठोरहृदोऽपि हि स्याद्रुदितं जनस्य६७॥ एवं सुतान्पतिरथो विवाह्य नृपादनुज्ञामधिगम्य राजा। साकेतकं स्वं नगरं जगाम सतोरणं स्थापितपूर्णकुम्भम्।।६८॥ अध्युष्य मध्ये वसतीरनेका जनहीत्वा महनीयवेषाः । सम्प्राप सामन्तजनैः समेतः पुरीमयोध्यामजराजसूनुः॥६॥ नासीदयोध्यामनु दुन्दुभीनां नृणां विरावैधिरीकृतानाम्। रामादिसन्दर्शनलालसानां करप्रचारेण विनाऽनुबोधः१७०॥ अन्तःपुरेव्यपुरन्धिवर्गे नृपाङ्गना मङ्गलपात्रहस्ताः । नीराजनं चक्रुरथो वधूमिः समं सुतानां गृहमागतानाम्।७१॥ पुरीं यातः शातक्रतवनगरानूनमहसं नृपान् जन्यान् भूषावसनगजवाज्यादिभिरलम् । स सम्राट् सन्तोष्य प्रमुदितमनाः स्वं स्वभाविशत प्रयान्तुं मानार्हानजनृपतिसूनुर्जनपदम् ॥ ७२ ॥ दशरथनृपवर्यः संविवाद्याथ सूनून कमलजभवमुख्यान बाडवान् कौशिकं च । प्रमातिभिरतिभक्त्या मानयित्वा स मान्यान् सुरपतिरिव राज्यश्रीयुतो राजते स्म ॥ ७३ ॥ इति श्रीरामविजये महाकाव्ये श्रयङ्के श्रीरूपनाथोपाध्याय- कृतौ श्रीरामपरिणयो नाम तृतीयः सर्गः ॥ २ ॥