पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः समाः कोऽयं समायाति विरुद्धवेषः शरद्विवस्वानिव दुनिरीक्षः। सन्देहमेवं विनुदन् जनानामसौ सदस्याविरभून्नृपारिः ॥९॥ भूपः समुत्थाय सं सम्भ्रमेण वरासने तं विनिवेश्य पाद्यम् । अर्घ्यादि दत्त्वा समयूयुजच्च कृताञ्जलिः स्वागतमाहृतं स्म१० पूजामनादृत्य नृपस्य तस्य क्रुधा व्यवोचद् भृगुवंशकेतुः । कोऽयं धनुस्त्रोटितवान् शिवस्य बदाशुमा तममोधवीर्यम् ११ तूष्णीं भवन्तं जनकं निरीक्ष्य विहस्य रामो निजगाद रामम् । शन्तव्यमेवेति कृतिममेयं मुने महात्मा खलु शान्तवृत्तिः१२॥ श्रुत्वेति वाचं जमदग्निसूनुः क्रुधा श्वसनाह रघूद्वहं स्म । हस्तेन धृत्वा परशुंसुधारं प्रचालयन् दण्डभिवेनपुत्रः ॥१३॥ निर्द्वापरं प्राङ् मम नाम चासीत् ससंशयं तत् त्वयि जातमात्रे। तत् त्यज्यतामाशु नचेत्प्रकामं प्रदेहि युद्ध यदि बाहुजोऽसि१४ सौमित्रिराह स्म मुने शृणु त्वं वचो धृतं नाम कथं नु जह्याम् । इक्ष्वाकवो वाकलहं द्विजेऽपिन कुर्वते शस्त्रचयैः कुतोऽभी॥१५॥ चापाः शिशुत्वे बहवोऽपि भन्नाः खेलद्भिरस्माभिरहर्दिवं भो। कोषो न केषामपि जात एवं प्रतीपमीक्षे भवतामिदानीमा॥१६॥ एकस्य चापस्य कृते महर्षे धनुःसहस्रं परिदातुमहि । क्रोधं महान्तं परिमाटुकामः क्रुदन्तरायः खलु तापसानाम१७ त्रस्यन्ति शक्रादपि वज्रहस्तात न पाशिनो दण्डधराद्यमाच। विस्वाकवो बिभ्यत्ति भूसुराणां कुलाबमानाच्छुतयुद्धवीयाः॥१८॥