पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। विप्राः प्रणम्याः सततं रघूणां कृतापराधा अपि भूमिदेव । एवं वदन्तं तमुवाच रामः सन्तोलयन्हस्ततले कुठारम् ॥१९॥ त्रिसप्तकृत्वो निधनं नृपाणां सहस्रबाहुप्रमुखोडतानाम् । कृत्वा कुठारेण महेन्द्रशैले स्थितोऽधुनास्ते विदितोन किते२० ब्रूषेऽसकृद्विप्र इति स्फुटं मामवेहि स क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वधस्य तिरोभव त्वं यदि जीवनेच्छा।॥२२॥ सौमित्रिराह स्म बदन्तमेनं तिरोहिताक्षस्य जगत्तिरः स्यात्। काष्ठं कुठारेण विपाटितं स्याच्छुतं मयेदं शतशो महर्षे ॥२२॥ धर्ता कुठारस्य मया श्रुतोऽभूत समित्सु शूरो न समित्सुशूरः। शास्त्री न गण्येत कुठारपाणिः कदापि शस्त्रे न कुठार उक्तः२३ सोढं प्रगल्भत्वमिदं त्वदीयं महीसुरत्वान्न च वीर्यवत्वात् । विप्रादृतेऽन्यत्र भवन्ति दीना न चापि गोभ्यो रघवः प्रवीणा:२४ वक्तुं न पात्रं त्वमसीति चोक्त्वा स लक्ष्मण राममथाबभाष। भ्राता तवायं स्फुटमूढबुद्धिर्बलाबलं स्वस्य न बत्ति नूनम् ॥२५॥ शक्तिस्तवास्तीति धनुर्मदीयं गुणेन संयोजय शीघ्रमेव । नो चेद्युधं देहि स उक्त एवं धनुः कराचन्महसा चकर्ष ॥२६॥ कृत्वा ततज्यं धनुराविकृश्य शरेण सन्धाय जगाद रामः। के क्षिपाणीति स चावदत्तंगतौ परत्रेति तथाऽकरोत्सा२७॥ दत्वा धनुश्चाथ सतूणमस्मै सहाशिष्याय गिरि महेन्द्रम् । समः सचापः शुशुभे सभायां तदा वपुष्मानिकपुष्पधन्वा २८