पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। श्रुत्वा धनुर्भङ्गमथो शिवस्य कुठारमारोप्य सुतीक्ष्णधारम् । स्कन्धे प्रवालारुणलोचनश्री रुषान्वितोऽभूत्कृतवीर्यजारिः१॥ केनेशचापस्य कृतो विभङ्गस्तमानयिष्ये यमराजधानीम् । शस्त्रेण तीक्ष्णेन मम प्रियेण बभाष इत्थं भृगुवंशकेतुः ॥२॥ इन्द्रो भवेत्पाशधरः कुबेरो यमोऽथवा कोऽपि भवेत्कृतास्त्रः। सोऽयं ममामोषकुठारवह्नौ पतङ्गधर्मा भवतु क्षणेन ॥ ३ ॥ इत्थं प्रतिज्ञाय चचाल धीरो बभूव यनेष्वसनस्य भङ्गः। धृत्वा कुठारं विकरालधारं साक्षात्कृतान्तः किल जामदग्न्यः४ वाति स्म वातःप्रखरः समन्तादुल्कानि पेतुः सहसा नभस्तः। प्रादुर्बभूवास्य पराजयस्य प्रकाशकं दुःशकुनं गरीयः ॥५|| मूर्द्धाभिषिक्तान्तकरस्तथापि जगाम राज्ञो जनकस्य देशम्। रोद्धुं न कोऽपि क्षमते बलीयाननेहसो वेगममोघमन्यः ॥६॥ घोरान्धकारः प्रथमं बभूव तमो विभिन्दुन्नथ जामदग्न्यः। संहारकालानलदीप्ततेजा व्यदर्शितेजोहतदृष्टिलोकैः ॥७॥ हस्तेऽक्षमालां दधदिहमन्युः कुठारमंसे च जटाः शिरस्तः। कक्षे निषङ्गं धनुरुग्रमंसेऽपरत्र रुद्रः खलु संजिहीर्षुः ॥८॥