पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. रामविजये। वामपादमनुसङ्कुचन्नयं दक्षिणं चरणमाप्रसारयन् । चापमानमयितुं समुद्यतः शैतिकण्ठमय ताडकान्तकः ॥८९॥ गामिमां जिगमिषू रसातलं पादपनाभरतः फणीश्वरः। चक्रिभिः प्रवरमध्यमाधमैरुन्निनाय सह संप्रयत्नतः॥९०|| गौरियं समभवत्ततोऽसमा किं पृदाकुधरणीपतिः फणाम् । केवलां किमु सहस्रधाऽकरोद्भमिभारधरणाय योगवित् ॥११॥ दिग्गजाःप्रचलितां धरामिमां स्वैःशिरोभिरथ तां स्थिरां नताः। ऊर्ध्वपुच्छमिवकर्तुमुद्यतास्तेन पुष्टापिटको शिरःस्थितौ ॥१२॥ भज्यमानवसुधां विलोक्य तामुद्दधार दशनेन शूकरः वक्रतामनुययौ ततोऽस्य किं चाईचन्द्रसदृशीं रदो भरात्९३।। तादृशीं वसुमतीं नतां स्थितां कच्छपश्च चरमे तनोर्महान् । उन्निनाय बलतस्ततोऽस्य तत् कुब्जतामिव जगाम भारतः९४१ चुक्षुभुः सलिलराशयस्तदा संत्रसत्तिमिझषादिजन्तवः । चेलुरष्टकुलपर्वता मुहुः सङ्घशोऽप्युडुगणा दिवश्च्युताः॥९५॥ वामहस्तशतपत्रकार्मुको बद्धपीतपटगाढकक्षकः । आततज्यमकरोडनुर्बलात्कुण्डलोल्लसितगण्डमण्डलः ॥९६॥ कर्षति स्वनिनग्रहावधि चिच्छिदेऽत्र सुदृढं स्वनोत्तरम् । पश्यतां सदसि भूभुजां शिरो नामयत्पुररिपोर्महाहनुः ॥९७।। देवताकस्सरोरुहेरिता वृष्टयः सुमनसा मुहुर्मुहुः । रङ्गमध्यगतराममस्तके देवदुन्दुमिरवैः समं च्युताः ॥१८॥