पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः आधिजं परिनुदन् स गाधिजो दुःखमस्य समवोचदुक्तिभिः। इन्द्रगोपसदृशेऽपि पावके दाहशक्तिमिव शक्तिमत्र वै ॥७९॥ सीतया कलितरामरूपया निन्दितं रुचिरमात्मनों वपुः । राघवोद्वहनकर्मणा विना मानसेन चरितं पितुश्च ह ॥८॥ जानकीहृदयसंस्थितं दलन् प्रास्फुरत्सपदि संशयं मुहुः । सव्यबाहुरवनीभुजा पुनर्मानहानिभपि सूचयन भृशम् ॥८॥ कौशिकेन समुदीरितो नृपो रङ्ग आशु विदधे नृपोचिते। मञ्चकान् परित आस्तृताम्बरान भूमिपासनविभूषितान्तरान।। आसनेषु समवस्थिता नृपाः स्वेषु रत्नवरवेषधारिणः । आबभुर्वरनिचोलसंवृताः खे ग्रहा इव मरीचिभासुराः ॥८३॥ आनकेषु च नदत्सु सर्वतो मागधेषु नृपवंशसूचिषु । उच्चरत्सु नृपकीर्तिमुज्वलामाददे नृपपुरोधसा वचः ||८ शैवकार्मुकवरे बलोत्तरैः स्थापितेऽयुतनरैः प्रयत्नतः । राघवेण पुरतः परीक्षणं दीयतामिति नृपस्य सम्मतिः॥८५।। केशभारमनबध राधवः सूक्ष्मपीतवसनेन मध्यमम् । सम्प्रताड्य भुजदण्डमद्भुतं प्राग्रहीहनुरथोस लीलया ॥८६॥ को स्थिरा भव दिशां गंजा स्थिरास्त स्थिराश्च फाणिकूर्मशूकराः। राम एष धनुरासतज्यकं कर्तुमिच्छति वदत्यूषाविति ॥ लक्ष्मणेऽपि समुदीर्णलक्षणे तत्क्षणे प्रवचने विचक्षणे ॥ राम राम धनुषीदृशे कथं त्वं चिलम्बयसि संवदत्यदः ॥८॥