पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः दक्षिणीयतमयाजकेष्वलं प्राप्तवत्सु वरदक्षिणामतः । श्रूयते स्म मिथिलेशमन्दिरेऽधिज्यतेशधनुषः पणः किल ५९॥ कौतुकी कुशिकनन्दनोऽभ्यगाजग्मतुस्तमनु तावुभावपि । पीतनीलवसनौ भृगेन्द्रवद्गामिनौ दशरथस्य दारको ॥६॥ गौतमाश्रममवाप गाधिजो यत्र तस्य वनिता शिला स्थिता। तं जगाद मुनिशापहारिणी भारती श्रुतिमनोहरा मुनि:६१।। पादपङ्कजरजष्कणैरमूं पापगोत्रभिदुरोपमैः स्पृश । कौतुकेन रघुवंशजः पदा तां निशम्य समुदाऽस्पृशच्छिलाम्।। तस्य पादरजसः प्रभावतः संबभूव ललनोत्तमा शिला। तं प्रशस्य विविधैः स्तवैः क्षणादाक्षिपादसविधं गता सती ६३॥ आगतौ त्रिपथगां कुमारको कौशिकेन सह तर्तुकामको । नाविकेन तरणाय वारितौ रामपादरजसो भयेन तौ ॥६४॥ तावकारिजसो हि लक्षणं मानुषीकरणमित्युवाच सः। क्षालनेन न विना निधीयतां नावि पादकमलं मम प्रभो ॥६५॥ क्षालयेति गदितेन धाविते नाविकेन चरणाम्बुजेऽमुनाः । आतरायिततनुर्निजाऽर्पिता नाविकाय सकुटुम्बकाय चा६६॥ आरुरोह तरणिं स राघवः सानुजो मुनियुतो हसान्निव । गाङ्गपारतरणाय मा भवेत् कालयापनमिति क्षणोत्सुकः॥६७॥ जग्मतुः कुशिकनन्दनेन तौ चापकौतुकादिक्षयाकुलौ । जान्हवीं समवतीर्य पाविनीं तीरभुक्तिनगरीं गरीयसीम् ॥६॥