पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः। भव्यसूचिशकुनं जगत्त्रये प्रादुरास रघुनाथजन्मनि । प्रापुराशु सकला जना मुद केवलं दशमुखादिकं विना ॥१९॥ राममेव किल लक्ष्मणोऽन्वगाच्छत्रुहा च भरतं तदंशजः । पूरुषं फलमिवात्मकर्मणो भूरुहं फलमिव त्वनेहसि ॥२०॥ राम राम जनकः प्रतीक्षते स्वानुजैः सह समेहि सत्वरम्। प्रातरेव कृतभोजनोऽनया क्रीडयालमिति चाम्बयोदितः२१॥ नाजगाम जननी तमन्वंगात् तां विलोक्य स भृशं पलायत। धूलिकर्दमकरोऽनुजैः सह संनिपत्य पितुरङ्कमाविशत् ॥२२॥ क्रीडति स्म परकेलिसाधनैर्वस्तुभिः सुसमतीतबालकः । विश्वमेतदभवद्यादिच्छया सोऽपि नृत्वमधिगम्य बालवत्॥२३॥ हर्षितं च पितरं समातृकं चक्रिरे प्रचलकाकपक्षकाः । कुण्डलादिपरिशोभिविग्रहास्तेऽर्मका:कलवचोभिरन्वहम्२४॥ वृत्तचूडविहितोपनीतकाः ब्रह्मचर्यमदधुः पुरोधसा। तेऽर्भका मुनिवरात्प्रपेदिरे चास्त्रशस्त्रनिचय समन्त्रकम्॥२५॥ ब्रह्मसूनुरपि रामगौरवादाप दुर्लभतया कृतार्थताम् । मन्यते स्म परमार्थवादिनामादिभूतमिव स स्वमात्मवित॥२६॥ एकदा दशरथं सदःस्थितं कौशिकोऽथ शिरसा जटा धत्। आजगाम मृगचर्मणा वृतो देहबद्ध इव धर्म उज्ज्वलः ॥२७॥ पाद्यमर्घमधुपर्कगा नृपः स्वागताय मुनये महात्मने । तं समर्ष्य कमनीय आसने संनिवेश्य समपूजयन् मुदा॥२८॥