पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निस्पृहा अपि भवादृशा मुने नागमो हि महत्तामकारणः । आश्रवोऽथ विदधातु किं तब ब्रह्मसाइधुभुवा हि सम्पदः ॥२९॥ भाग्यतो मम भवाहगागमो जात एव सममि कौशिक । वारिदो हि समये प्रदृश्यते कधूकश्रमहराय सर्वथा ॥३०॥ राघवं कुलमिदं महात्मना पादपारजसा पवित्रितम् । आगतेन भवता ममालयमित्यवोचदजनन्दनो मुनिम् ॥३१॥ एवमेव पृथिवीपति तदा वादिनं कुशिकन्दनोऽवदत् । अन्वयोचितमिदं वचस्तव हर्थिता न रघवः पराङ्मुखाः ॥३२॥ त्वादृशं क्षितिपति महीपते याचकाः समपहाय के नृपम् । अर्थयान्ति न हि वारि बारिदाचातका अपिकुशास्तृषान्यतः३३ उत्तमेषसफलापि कामना श्रेयसी न सफलाऽधमेघु सा! एवमेव सुविचार्य साधको नाधमेषु हि भवन्ति मार्गणाः ॥ विघ्नहेतुविनिवारणक्षमे नायके न मुनयः शान्ति हि । आजनेः सुसमुपार्जितं तपो नाशमोति शपतांतपस्विनाम्३५॥ राक्षसा मम मखान्तरायकं कुर्वते क्षितिप पर्वपर्वणि रक्षणाय सवनस्य कामये राममात्तधनुषं सलक्ष्मणम् ||३|| ब्रह्मकल्पाविधिसूनुना समं मन्त्रिणा समनुभन्थ्य देहि मे। राममाशु मनसा प्रसेदुषा नान्यथा हि कुशिका वयं मता:३७ कौशिकास्वमिव कौशिकरितं संनिशम्य वचनं क्षितीश्वरम्। ओमनोमिति न वक्तुमीश्वरं संजगाद विधिसूनुरर्थवित् ३८॥