पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये निर्गुणोऽपि गुणवान् भवान् विभो सृष्टिपालनविनाशकर्मभिः। ब्रह्मविष्णुशिवनामाभिः पृथक् केवलोऽपि सपदि प्रतीयते ॥९॥ चेतसा सह यतो निवर्तते भारती तमनवाप्य माशः । स्तोतुमिच्छति कथं किमात्मकं त्वामतीतबन्चसं हृदा सह१०॥ रूपमीदृशमलौकिकं प्रभो संहरस्व जनसौख्यकारि यत। तद्ग्रहाण रुचिरं महात्मभिर्येयमम्बुजदलाभग्घरे॥१॥ इत्युदीरितमुदारविक्रमः सनिशम्य शयनीयमध्यगः प्राकृतः शिशुरभूत्स्वरोचिषा सूतिकालयमलं प्रकाशयन्१२।। आगतेन तनुजेन वेधसो जातकर्माणि कृते पुरोधसा । तेऽर्भकाः समधिकं बभुस्तथा शाणमुक्त मणयो यथाश्चा१३॥ योगिहृत्कमलवासतो मुनी रान नाम विधे विधानचित्। ज्यायसो गुणगणैर्गरीयसो भूपतेस्तनुभवस्य कालवित ॥१४॥ आत्मनि क्षितिभरार्पणाद्दनौं नाम चेति भरतोऽथ मध्यमः । लक्ष्मणश्च शुभलक्षणैर्लघू शत्रुसूदनतया च शत्रुहः ॥१५॥ यादृशो नृपवरस्य सम्पदो यादृशी च मनसोऽप्युदारता । यादृशं कुलमहस्करोद्भवं तादृशं धनमान्महामतिः ॥१६॥ केवलं नरपतेर्गृहाङ्गणे नानकास्तनयजन्मसूचकाः । ताण्डवेन सह वारयोषितां नेदुरध्वनि सुपर्वणामपि ॥१७॥ नन्दनादिकुसुमानि निर्जराः संववर्षुरलमुत्सवेरिताः संप्रसेदुरमला दिगापगा मन्दमन्दमथ वायवो ययुः।।१८।।