पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। स राजाऽऽराजाद्यैर्नमितचरणाम्भोजयुगलान्- मखाध्यक्षात्तञ्चार्चितवरधनर्षिद्विजवरः। स भूयो भूपोनस्तिमृधु बनिताभ्यामथ ददौ समं भागं ताभ्यामलभत सुमित्रापि शकले ।। ६५ ।। कौशल्या राजपत्न्यो युगपधुरथो गर्भमिन्दुप्रकाश कैकेयीं ताः सुमित्रा नृपकुलततये लोकपालानुभावैः । आविष्टं नीरजानां पटलमिव महाद्वीपवत्या वर्षा मेघानां वृन्दमुद्यत्सकलजनहितं श्र्यालयं शोभसानाः६६ इति श्रीरामविजये महाकाव्ये श्रयः श्रीरूपनाथापाध्याय- कृतौ गर्भाधानो नाम प्रथमः सर्गः ॥१॥