पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः चत्रिकेऽथ धवले पुनर्वसौ शोभनेऽधिनवमि स्त्रिया ग्रहैः । पञ्चभिर्नरविगैः श्रितोञ्चगैर्ज्येष्ठया प्रसुषुवे सुतो दिने ॥१॥ पद्मपत्रनयनश्चतुर्भुजो जानुलम्बिसुभुजोल्लसद्वपुः शङ्खचक्रकमलंगदां दधत्कौस्तुभेन वनमालया लसन् ॥२॥ कुन्दकोरकरदो दरस्मितैरुल्लसद्दशनवस्त्रमण्डनः । नासिकाजिततिलप्रसूनकः कुण्डलच्छविलसत्कपोलकमा३॥ कामचापमदहारिसुध्रुवौ सन्दुधत्तिलकशोभिभालकः । स्निग्धवक्रशितिकेशहस्तकोऽत्रस्तरत्नमुकुटेन भासुरः ॥४ चारुपीतवसनोपरिस्खलत्काश्चिदामपरिशोभिमध्यमः। पद्ममध्यरुचिमोषिपत्कजो नूतनाग्यशतपर्विकाछविः ॥५॥ आतपत्रकुलिशाजकेतनैरङ्कुशेन च तथोर्ध्वरेखया । लामिछतेन चरणद्वयेन संलक्षितोऽञ्जितनरर्षभश्रिणा ॥६॥ केकयेशसुतया सुतस्ततोऽसूयताऽसितमणिच्छविस्ततः । मौरकान्तिसुतयोः सुमित्रया युग्ममंशयुगलस्य मक्षणात् ॥ कोशलेशसुतया समं नृपस्तादृशं सुतमवेक्ष्य विस्मितः । बाध्यगद्गदागिरा समस्तवीद्धेतुनात्पुरुषर्षभाकृतिम् ॥