पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः यदारामे रामेहिततृणजले केलिधरणी- धरो दीव्यत्युच्चैः परमरमणीयागनिवहः । स्फुरद्रत्नोरत्नोगतकिरणसंच्छन्नशिखर: स्रवत्पाथोधारामुषितजनताखेदनिकरः ॥ १० ॥ जलाधारा धाराधरगलितनीरानुपचिताः करालैर्नक्राद्यौरिव खलगणैः क्रूरहृदयैः । गभीराभीराभिः सलिलचरजीवरसुगमाः प्रसन्ना यतासन्सरसिजसमापन्नसलिला: ॥ ११ ॥ समुद्रा मुद्राणां विधुमिहिरबार्हर्दिविषदा जना यस्यामासन्नगणितसुपर्वक्षितिरुहाः अचिन्ताश्चिन्तादावभिलषितदातयमनसो. मणौ तेषां ते के धरणिपतयो ये परभुवाम् ॥ १२ ॥ अगम्यागम्यानां जिनपटलं यत्र सुदृढं विमुक्तस्तस्मात्स्यात्प्लुतनरवरो गोप्रतरणे । सुधाराधारास्यो नयनजितराजीवमहिमा चतुर्बाहुः पीताम्बरकलितदेहच्छविधरः ॥ १३ ॥ महामायामाया तजवनिकाच्छन्नहृदया यदावासानास्थाविहितमनसोऽन्यत्र रुचयः । समीहन्ते हन्तेषदपि न हि यतास्ति कुशलं तदेवेमे लोका विधिविहतभाग्या इह किल ॥१॥