पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजय वसन्तोऽसन्तोषं गतविषयतृष्णाः प्रमुदिता हरन्त्युच्चैर्यस्यां परिषदि लसन्तस्तनुभृताम् । विरागा रागाद्यैर्मुषितमनसां गीतयशसः कथाभिः पुण्याभिः परममहसो दानवरिपोः ॥ १५ ॥ प्रजानाथानाथारुचिरतरगाथाः सहदया बभूवुर्यस्यां वै रविकुलभवा दीनमनसाम् । कलापालापाद्यैर्मुदितसुधियः ख्यातयशसः कलाभिः सम्पूर्णा बलजितविपक्षप्रतिभटाः ॥ १६ ॥ स्वरामारामावैभवतुलितयक्षाधिपतयः सदा यागासक्ताः करकलितभूपालमणयः । क्रियादक्षा दक्षाध्वरहरनमस्याविधिरता विधिज्ञा दातारोऽवनिमाणिसुवर्णाचलगवाम् ॥ १७ ॥ नृपालोऽपालोको विगतसुकृतेषु प्रतिदिन बभूवाभ्यस्तस्यां दशरथ इति प्रागतिरथः । यशोधामा घामावरनृपतिमालस्य नृपते- रजस्य प्रोद्वाहे विजितनृपचक्रस्य तनयः ॥ १८ ॥ गताशाताशा निवरवशिष्ठादुपनयं म रेजे सम्प्राप्तः कृतनिकषमार्गो मणिरिव सुधर्मा धर्मार्थावपि परिचरञ्च्छस्त्रनिचयं कलाविद्यास्तस्मादपि परिपठन्मन्त्रसहितम् ॥ १९ ॥