पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। अलङ्घ्या लङ्घ्याज्ञावशितधरणीधारिकरिणाऽ रिणा पौलस्त्येनोद्धृतभुजधृतश्वेतगिरिणा । कलापूणैः पूर्णौनिजगुणगणैानवगणैः श्रिता शिल्पागाराश्रिततरधरापालसरणिः ॥ ५ ॥ चतुर्वर्णैर्वर्णैषितसुकृतशूरैः परिवृत्ता मनोवश्यैर्भूपैनयनियमविद्वद्भिरविता । चतुर्द्वारैर्द्वारैरिव परिलसच्चापसदृशै- श्चतुर्णामर्थानामनुपमतमानां परिगता !! ६ ॥ सरय्या रज्वा वा विमलजलमध्यप्लुतवतां नृणामहः कृष्टं निखिलमिह जन्मार्जितमपि । समं सर्वे सर्वेश्वरहरिपदं प्रापुरमरै- दुरापं ते भूयः कथमिस्तथा चक्रिवपुषः ॥ ७ ॥ गृहै रम्या रम्यामरपतिगृहादप्यति वरैः सुधालिप्तैरनाखचितवलभीकुख्यकाशलैः । विचित्रश्चित्रैर्या कनकमयरङ्गादिविकृतै- नृणां देहीत्युच्चैर्गलितवचनैश्चारुवपुषाम् ॥ ८ ॥ तुरङ्गा रङ्गायाः सदनानिचये चाल विलस- न्युदना मातङ्गा कटगलितदानाम्बुनिकराः इह क्रय्याऽक्रय्या वरमणिगणा हट्टविपणौ प्रकाशन्ते कान्त्या तुलितहरिदश्वादिकिरणाः ॥ ९ ॥