पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये

राजाधिराजरघुवंशमणेः सकाशा- ल्लब्धोरुमानपरिजातमहाप्रसादाः। क्लेशाद्ययुर्निजपुराणि बिभीषणाद्याः आज्ञा हि तस्य यशवर्तिजनैरलङ्घ्या॥१०॥ आहूय मारुतिमवोचदसौ हनूमन् कर्मेदृशं यदकरोर्न कृतं त्वदन्यैः । तस्मात्त्वमत्र वस जीव चिराय कामं दत्ताशिषेति सह तं विससर्ज रामः ॥१४॥ रामे प्रशासति महीं न बभूवुरन्धा न श्रोणपृश्निबधिरा न च दण्डनीयाः । नाकालमृत्युवशगा न जडान षण्ढा नावग्रहादिविपदः श्रवणे स्थितास्ते॥१४२॥ गावस्त्वनल्पपयसः फलिताश्व वृक्षाः शस्यानि पवित्रभफलानि विनापि कृष्टिम् । वर्णाश्रमा व्यसनतो विरता रताश्च धर्मे बभूवुरवनीं परिपाति रामे ॥ १४३ ।। सन्तोषिता वरमखैरमरा द्विजाताः दानैर्नयैररिगणा रघुनायकेन । लुब्धा धनैर्मुनिगणाः परमादरेण बुद्ध्या बुधा गुरुजना नमनेन तेन ॥१४॥