पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ११९

यत्पादाम्बुजसंभवा भगवती गङ्गा पुनाना जगत् पाथोधिं सजलं चकार सकलं पीतो मुनीन्द्रेण यः। यत्पादाजनिषेवणाद् ध्रुवपदं प्रापद् ध्रुवो बालकः तस्य श्रीरघुनायकस्य चरणाम्भोजे भजे भावतः ॥१४॥ येषां धियः स्वपरभेदविदां विध्यु- र्नैवानिमित्तसुहृदो न च दुर्हृदो ये । पश्यन्तु ते कृतिमिमां कृपया हि सन्तः श्रीरामकीर्तिरतिकल्पलतोपमेति ॥ १४६ ।। इति श्रीरामविजये महाकाव्ये श्र्यङ्के श्रीरूपनाथोपाध्यायकृतौ श्रीरामाधिरूढसिंहासनो नाम नवमः सर्गः ॥९॥ इति श्रीरामविजयं नाम महाकाव्यम् समाप्तम्।।