पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः

भूषाम्बराणि कपिभल्लकराक्षसानां भूपैः समं परिदधौ कपिभिश्च रामः । सभ्रातृकश्च सह तैर्विरराज कामं तारागणैरुडुपतिर्वियतीव पूर्णः ॥ १३५ ।। आरूढनागतुरगादिकवाहनैस्तै- र्भूषाम्बरावृतवपुर्भिरसौ जगाम । माङ्गल्यसूचिकलशध्वजतोरणाङ्कां स्वीयां पुरीं सलिलसेकनिवृत्तधूलिम् ॥१३६|| गीतैः कलैश्च मधुरस्वरगायकानां ढक्कामृदङ्गपणवानकगोमुखानाम् । शब्दैर्दिगन्तरगतैर्गजवाजिनादै- र्हस्तप्रचालनविबोधिजनप्रचाराम् ॥१३७॥ तीर्थोदकैबिंधिसुतादिभिराय॑विप्रैः संहारितैः कपिवविहिताभिषेकः । रामो विदेहसुतया सहितो विदेहो भद्रासने वनितयेव बभौ सहायम् ॥१३८॥ छत्रं बभार भरतो रजनीकराभं सौमित्रिकौ जगृहतुः सितचामरे सः । धर्मार्थकामविहितानुचरत्वमोक्षो देहीव भाति रघुवंशमणिः स्म तत्र ॥१३९॥