पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ११५

पारेगङ्गं शृङ्गवेरं सुरम्यं पश्येदानीं यत्र नैषादराजः। नैवग्रोधं क्षीरमाहार्य वर्ये चक्रे शीर्षं मामकीनं जटालम् ॥ १२५ ॥ स्थित्वा तस्मिन् प्रेषयामास वायोः पुत्रं भ्रात्रे मध्यमायाऽथ रामः । कैकेय्यास्तं पुत्रमानन्दयुक्तं चक्रे कीशो वार्तया रावणारेः ॥ १२६ ।। श्रुत्वा वचो हनुमतो भरतस्तदानी- मुत्थाय शालिरिव वृष्टिमवाप्य खिन्नः। आलिङ्ग्य तेन रभसात्तरसोरसा च प्राप प्रहर्षमतुलं रघुकेतुनेव ॥ १२७ ॥ प्रत्युज्जगाम सह सैन्यपुरोहिताद्यैः रामं चिरागतमतो भरतः पदेन । रामोऽपि वीक्ष्य सविधागतमात्मबन्धुं ब्रह्मात्मजेन जननीभिरथोच्चचाल ॥१२॥ नत्वा गुरुं च जननीश्चरणारविन्दे बन्धू गतौ समवलोक्य रघुप्रवीरः । उत्थाप्य बाहुयुगलेन समालिलिङ्ग प्राघ्राय मौलिमुरसा शरचिह्नितेन ॥१२९॥